Untitled Document
Untitled Document

महर्षि वेदव्यास गुरुकुल विद्यापीठ

अस्मान् जानन्तुः-

असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमयस्य सुपथ दृष्टा जनमानसानां हृदयान् स्वीयैः वाणीभिः ज्ञानस्पन्दनं कर्त्तारःविश्व जागृति मिशनस्य संस्थापकाः सत्य-धर्म-सौहार्द्रस्य पुरोधा पूज्य पादपरमसन्तश्रीसुधांशुमहाभागानां सुकोमलकान्त हृदये एक: भाव: जागृतवान् आसीत् यत् ज्ञानं प्राचीन वेद-उपनिषद्-पुराण-गीतादिमहत्सु ग्रन्थेषु प्रदत्तमं एवंच ऋषिमुनीनां च यत् ज्ञानं तत् सनातन धर्मस्य विशुद्ध चिन्तनस्यानुकूलं जन-जन पर्यन्तं एकरूपतायां समुपस्थापयाम। एतया भावनया महाभागानां मनसि भाव: अंकुरितवान् आसीत् यत् सम्पूर्णे भारतवर्षे उपदेशक-धर्मप्रचारकानां निर्माणार्थं विद्यालयानां-गुरुकुलानां स्थापना भवतु यत्र सुयोग्य-कुशल-शिक्षकैः छात्रान् प्रशिक्षणं प्रदाय धर्माचार्य रूपे समाज सुधाराय निर्माणं भवेत्। ते गुरुकुले तप्त्वा ऊर्ज्जा संप्राप्य प्राचीन ग्रन्थानां वर्त्तमान रूपे ज्ञानं प्राप्य धर्मस्य प्रचारं कुर्वन्तु। सर्वै: विषयै: सहैव तकनीकी ज्ञान विज्ञानस्यापि ज्ञानं भवेत्। तान् इतिहास-वेद-पुराण-उपनिषद् स्मृति ग्रन्थादीनां विधिवत् ज्ञानं भवेत्।

अस्मिन् विद्यापीठे संस्कृत्याः महान् क्रान्तिः घटिता यदा सम्पूर्ण भारतवर्षात् मेधावी छात्राणं चयनं जातम्। आचार्य (एम.ए.) विद्यावारिध्यादि (पी.एच.डी.) शिक्षां सम्प्राप्य छात्रान् वैदिकङ्वामय आध्यात्मिक ज्ञान-विज्ञान-श्रुति-स्मृति-शास्त्र-मनोविज्ञान-इतिहास एवंच साहित्येन सहैव तेषु नेतृत्व-वक्तृत्व शक्तिरपि जागरितं कृतम्।

यत्र प्रशिक्षिता: सुयोग्या: धर्माचार्याः प्रवचन-योग-यज्ञ-मंच संचालन-भजन-संकीर्तन-योग-साधनादि सर्वाणि कार्याणि कुशलता पूर्वकं सम्पाद्य देशेषु-विदेशेषु गुरोः प्राप्त आध्यात्मिक ज्ञानेन जनमानसं आलोकयन्ति आन्दोलयन्ति च। इमे धर्माचार्याः बारम्बारं समाजोपयोगि पर्यावरण संरक्षणं-मद्यनिषेध्-नार्युत्थानादीनां नुक्कडनाटकादीनां सफल मंचनमपि कुर्वन्ति।

महर्षि वेदव्यास गुरुकुल विद्यापीठं आनन्दधामाश्रमे स्थितमस्ति। इदं भारतस्य राजधान्यां नवदेहल्यां पश्चिमेक्षेत्रे स्वच्छ अप्रदूषित वातावरणे स्थापितमस्ति। बहिर्मुद्रिका राजमार्गत: दश किलो मीटरस्थ: दूरं मुण्डका इत्याख्यस्य मेट्रो स्थानकादपि एक किलोमीटर परिमितं दूरस्थितमस्ति आनन्दधामआश्रमस्य पुण्य भूम्यां सात्विक वातावरणे स्थिताः, गुरुकुलं-मन्दिरं, यज्ञशाला, सिद्धशिखरं, मानसरोवर नामकस्य सरोवरं, गौशाला, करुणासिंधु धर्मार्थ औषधालयः एवं अन्या: संस्था: पूज्यश्रीणां वरदरूपेण वर्तन्ते।