Untitled Document
Untitled Document

महर्षि वेदव्यास गुरुकुल विद्यापीठ

अस्माकं अन्याः प्रतिबद्धता:

अस्य पुण्यमय गुरुकुलस्य स्थापनां कुर्वन् पूज्यश्रीः कथिवान्नासीत् - ;भवनानां निर्माणादपि श्रेष्ठं भावनानां केन्द्रं व्यक्ते: निर्माणस्य कार्याणि महत्वूपर्णानि सन्ति। अस्मिन् गुरुकुले प्रशिक्षिता: छात्रा: ऋषि परम्परायाः संवाहकाः सन्ति। स्वराष्ट्रस्य संस्कृति:-सभ्यता-सदाचार-सहिष्णुतादीन् सद्गुणान् स्वान्त: करणे धारयित्वा ते सुसंकल्पिताः भूत्त्वा राष्ट्रस्य गौरवं वर्द्धापयन्ति, तेषां स्कंधेष्वेव भारतस्य वैदिक निधि: स्थापितास्ति, इमे देशस्य भावी कर्णधाराः सन्ति। इमे 'भारतं विश्वगुरुः' निर्माता भविष्यन्ति। इमे छात्राः एव महाराजश्रीणां स्वप्नान् संकल्पान् मूर्त्तरूप प्रदाता भविष्यन्ति एतेषां एव पदचिन्हानां देशः अनुकरणं करिष्यति। इमे धर्म मार्गस्य प्रहरिणः सन्ति, ये परमपूज्य गुरुदेवानां छत्रछायायां सम्पूर्णे विश्वे धर्मध्वजामारोहयिष्यन्ति।

देवदूत बाल कल्याण महाभियानम्

भारतस्य भविष्यं समुज्ज्वलाय विश्व जागृति मिशनं एकां बहुविशालां ‘‘बाल विकास योजना’’ संचालयति। भारते चतु: कोट्याधिक अनाथाः अनाश्रिता बाल-बालिकाः सन्ति। येषां यासांच संरक्षणं एवं शिक्षणं अस्मिन् कलियुगे महत्यावश्यकतास्ति। अस्मिन्क्षेत्रे विश्व जागृति मिशन द्वारा कृतं प्रयासं प्रशंसनार्हम्।

1) देवदूत बालाश्रम-सूरत नगरम् - विषम परिस्थितिभ्य: पारंगता: अनाथाः तथा च असहायाः बालाः कमलवत् प्रफुल्लिताः तथा च आम्रवृक्ष वत् फलदाः भूत्त्वा राष्ट्रस्य सुयोग्याः नागरिकाः भवन्तु अनेन संकल्पेन परमपूज्या: गुरुवर्या: सूरत नगरे (गुजरात प्रदेशे) एवंच कर्णपुर नगरे (उत्तरप्रदेशे) अनाथालयो: स्थापना कृतवन्तः। अनयो: द्वयो: आश्रमयो: छात्रेभ्यः सम्यक्तया निवासाय, शिक्षा-दीक्षायै समस्ता: व्यवस्था: सस्नेहपूर्णवातावरणे भवति। एतान् विद्यालयीय शिक्षया सह योगासन-जूडो-कर्राटे तथाच क्रीडानां सांस्कृतिक गतिविधीनां शिक्षापि दीयते। धर्म, संस्काराः, परम्पराभिश्च एतेषां परिचयं कारयति।

2) देवदूत बालाश्रम- कर्णपुरम् - सिद्धिधाम आश्रम, बिठूर, कर्णपुरे उत्तर प्रदशे विश्व जागृति मिशन द्वारा बालाश्रम (अनाथालय:) प्रचलित। अस्मिन् बालाश्रमे ते बालाः येषां मनसि बहुविशालानि दीर्घाणि स्वप्नानि सन्ति किमपि कृत्त्वा समाजे प्रतिष्ठा प्राप्ति हेतोः दुःसाहसमपि अस्ति, तेषां निश्छल-निष्पाप मूर्तिं पश्यन् एव हृदये प्रेम्ण: प्रस्फुरणं प्रभवति ते सर्वे भावीकर्णधाराः प्रतिभायाः आगारा: सन्ति। अनुशासने उषित्वा सुन्दर वातावरणे शिक्षां स्वीकुर्वन्ति। तेषां कृते श्रेष्ठतमेषु विद्यालयेषु पठन-पाठनस्य वयवस्था दीयेते। क्रीडया सहैव तेभ्य: योगासनं, जूडो कराटे इत्यादीनां अपि शिक्षाया: दानं भवति। यज्ञादिष्वपि बालाः नियमित रूपेण भागं स्वीकुर्वन्ति तान् धार्मिक एवंच संस्कारवान् निर्मान्ति। किमभवत् यत इमान् देवदूतान् बालान् मातृ:-पित्रो: छत्रछाया न प्राप्तवान् भगवान् इमान् बालान् प्रेम करुणायाश्च प्रतिमूर्तिः पूज्यानां श्रीसद्गुरु महाभागानां शरणं दत्तवान् अस्ति।

3) ज्ञानदीप विद्यालयः फरीदाबादनगरम् हरियाणा - अवकराणां मध्ये सुनम्य (प्लास्टिक) धातुं लौहा दिञ्चान्वेषण कार्यं कुर्वन्त: बालाः, बालश्रमरतेबालाः, भिक्षायांरते बालाः अपि अस्य युगस्य विडम्बनाः सन्ति येषां निवारणं समाजं एव कुर्यात्। एवम्प्रकारेणैव अत्यन्त निर्धन बालकेभ्य: बालिकाभ्यश्च: सुधान्शुमहाभागा: फरीदाबादे (हरियाणा) ज्ञानदीप विद्यालयस्य स्थापनं कृतम्। यस्मिन् एक सहस्र बालक-बालिकाः आधुनिकी शिक्षयासह पवित्र संस्कारान् अपि प्राप्नुवन्ति। ज्ञानदीप विद्यालयस्य सर्वेषां बालानां वस्त्राणि पुस्तकानि अल्पाहारादीनां समुचिता व्यवस्था विश्व जागृति मिशनेन कृतमस्ति।

4) आदिवासी क्षेत्रे आधुनिक विद्यालयम्- करुणायाः साक्षात्प्रतिमूर्तिः पूज्यश्रीः सदगुरुदेव: झारखण्डस्य वनवासीक्षेत्रे वनबंधूनां दुर्दशां दृष्ट्वा द्रवीभूतोभवत्। भवन्तः तेषां हृदयविदारिकां दशांअपश्यन् तेषां सुकोमलान् बालान् दृष्टवन्तः तेषां च अभावग्रस्तं जीवनं अपश्यन्। साधनेभ्यः सुविधाभ्यः निरतिं गहनेषु वनेषु नक्सलवादिभ्यः भयात् अदृश्योभूय बुभुक्षिताः पिपासायुताः तेषां पीडां सुधान्शुवर्या: अनुभवं कृतवन्तः। तेषां कल्याणाय रांची इत्याख्यस्य नगरस्य झारखण्डस्य सन्निकटे रुक्का एवंच खूंटी नामधेये शिक्षा संस्थानद्वयं प्रारम्भं कृतवन्तः ययोः सहस्रान् बालकान्-बालिकाश्च संरक्षणं एवं शिक्षा प्रददाति।

विश्व जागृति मिशन एतेषां बालानां सम्पूर्णं व्ययं आवहति

अस्मैश्रेष्ठाय कार्याय भक्ता: अग्रेआगत्य स्वस्वहस्तान् अग्रे नयन्तु, स्वकीयं श्रेष्ठम्  तथाच परिमार्जित धनात् किंचित् अंशं हविरूपे अर्पयन्तु। बाल-विकास्य अनया दिव्ययोजनया विश्वमांगल्यस्य स्वप्नं साकारं भविष्यति।