Untitled Document
Untitled Document

महर्षि वेदव्यास गुरुकुल विद्यापीठ

गतिविधय

भारतस्य भविष्यस्य कर्णधारा: इमे बालाः राज्यस्तरीयायां प्रतियोगितायां श्रेष्ठ प्रदर्शनं कृत्वा अनेकाः पुरस्काराः प्राप्तं कृतवन्तः सन्ति। एषां बालानां शिक्षा-आवासं वस्त्रं, पुस्तकं एवंच समस्त सुविधाया: सम्पूर्णं व्ययं विश्व जागृति मिशनं वहति। इमे बालाः धर्मस्य ध्वजा नीत्वा स्वामी विवेकानन्दस्य इव धर्मजागरणस्य सैनिकाः भविष्यन्ति तथाच सम्पूर्णे विश्वे भारतस्य प्रचारं-प्रसारं करिष्यन्ति।

पूज्य चरणानां महाराजश्रीणां आशीर्वादैः सम्पोषिता: गुरुकुलस्य समस्ताः बटुका: ब्रह्मचारिणः सुयोग्यानां आचार्यवर्याणां श्री चरणेषु उषित्वा वेद-उपनिषद्-गीता-संगणकेन सह सैद्धान्तिक विषयाणां अध्ययनं पूर्ण मनोयोगेन कृत्वा स्वरूच्यानुसारेण जूडो-कर्राटे-संगीतं-गायनं-वादनं वेदस्य सस्वर पाठं-हस्त संचालनं-कन्दुकं-बैड मिन्टनादि कार्येषु निमग्नाः वर्त्तन्ते।

अस्यातिरिक्तं समाचार दूरदर्शनेन संस्कृतवार्तावली कार्याक्रमस्य हेतोः समये-समये गुरुकुले विविधानां कार्यक्रमाणां यथा- वेदपाठ-योगासन-श्लोक गायनादीनां ग्रहणं (रिकॉर्डिंग) कृत्त्वा बुधवारे शनिवारे च प्रसारितमपि भवति। दिल्ली संस्कृत अकादमी द्वारा समायोजितायां प्रतियोगितायां श्लोकगायन-वेदान्त्याक्षरी-वाद-विवाद-संस्कृत सम्भाषणादिषु छात्राणां सहभागिता श्रेष्ठतया भवति। समये-समये पृथक्-पृथक् स्थानेषु समाजसुधारकानां नुक्कड नाटकानां मंचनादि विद्यापीठं कारयति।

 Simple Fade Slideshow Theme - Jssor Slider, Carousel, Slideshow with Javascript Source Code