Untitled Document
Untitled Document

महर्षि वेदव्यास गुरुकुल विद्यापीठ

अन्तर संरचनाः-

इदं विद्यापीठं महानगरीय प्रदूषणात् दूरं प्राकृतिक स्वच्छ वातावरणे स्थिते आनन्दधामाश्रमे संचालितमस्ति यः नांगलोईतः षट् किलोमीटर दूरस्थ नांगलोई-नजपफगढ़ मार्गस्य समीपे बक्करवाला ग्रामस्य सन्निकटे स्थितमस्ति, सात्विक पर्यावरणे स्थितमिदं विद्यापीठमाश्रमे निर्मितानां त्रायाणां देवालयानां वामतः स्थितमस्ति।

यस्मिन् कक्षाभ्यः सप्त तथा आवासहेतोः च षट् विशालाः स्वच्छाः-वायुयुक्ताः-सर्वसुविधायुक्ताः-प्रकोष्ठाः सन्ति। संगणक प्रशिक्षणाय एवं संगीतप्रशिक्षणाय च विभिन्नाः प्रकोष्ठाः सन्ति। ऋषिकुमारान् योग, कर्राटे आदीनां प्रशिक्षणं विशाल सत्संग भवने प्रचलति। विद्यापीठस्य कृते पृथक्तया पुस्तकालयोस्ति, यस्मिन् प्राचीनेन सार्धं वर्तमान समयस्य आवश्यकतानुकूल ज्ञान-विज्ञान सम्बधिन: पत्रिकाः उपलब्धा: सन्ति, यासां संख्या त्रिसहस्राधिकास्ति। पुस्कालयः एकः भव्य-भवने रूपे स्थितोस्ति, यत्र पठन पाठनस्य सर्वा: सुविधा: युक्ताः सन्ति।

विद्यापीठस्य समीप एव स्थितायां यज्ञशालायां छात्राः नित्यंप्रातः काले यजन्ति। गुरुकुलस्य पृथक् विशालान्नपूर्णा भवनमस्ति यत्र केवलं छात्रेभ्यः भोजनं निर्मान्ति पाचकाः। गुरुकुलपरिसरे अधिकारिजनेभ्यः प्रधनाचार्याय एवं च प्राशासनिक कार्याय पृथक् पृथक् भवनानि-सन्ति। परिसरे वागदात्र्या: सरस्वत्याः भव्या मूर्तिः स्थापितास्ति। यत्र अश्वत्थाः वटाश्च विशालकायाः वृक्षाः पुष्पैः विकसिताः लताश्च गुरुकुलस्य शोभां वर्धापयन्ति।

 Simple Fade Slideshow Theme - Jssor Slider, Carousel, Slideshow with Javascript Source Code